Sarga 67: The Plight of a Kingless Land
अराजकदुरवस्थावर्णनम्
arājakaduravasthāvarṇanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
नाराजके जनपदे शरान् सततमस्यताम् । श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ।।2.67.21।।
Meaning
नाराजके जनपदे वणिजो दूरगामिनः । गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः ।।2.67.22।।
Meaning
नाराजके जनपदे चरत्येकचरः वशी । भावयन्नात्मनात्मानं यत्र सायङ्गृहो मुनिः ।।2.67.23।।
Meaning
नाराजके जनपदे योगक्षेमं प्रवर्तते । नचाप्यराजके सेना शत्रून् विषहते युधि ।।2.67.24।।
Meaning
नाराजके जनपदे हृष्टैः परमवाजिभिः । नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ।।2.67.25।।
Meaning
नाराजके जनपदे नराः शास्त्रविशारदाः । संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ।।2.67.26।।
Meaning
नाराजके जनपदे माल्यमोदकदक्षिणाः । देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ।।2.67.27।।
Meaning
नाराजके जनपदे चन्दनागुरुरूषिताः । राजपुत्रा विराजन्ते वसन्त इव शाखिनः ।।2.67.28।।
Meaning
यथा ह्यनुदका नद्यो यथा वाऽप्यतृणं वनम् । अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ।।2.67.29।।
Meaning
ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः । तेषां यो नो ध्वजो राज स देवत्वमितो गतः ।।2.67.30।।
Meaning