Sarga 76: Daśaratha's Funeral Rites
दशरथौर्ध्वदैहिकम्
daśarathaurdhvadaihikam — word-by-word gloss for all 23 shlokas.
Jump to a shloka · 23 in this sarga
तमेवं शोकसन्तप्तं भरतं केकयीसुतम् । उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ।।2.76.1।।
Meaning
अलं शोकेन भद्रं ते राजपुत्र महायशः । प्राप्तकालं नरपतेः कुरु सम्यानमुत्तमम् ।।2.76.2।।
Meaning
वसिष्ठस्य वचः श्रुत्वा भरतोधारणां गतः । प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ।।2.76.3।।
Meaning
उद्धृतं तैलसंरोदात् स तु भूमौ निवेशितम् । आपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ।।2.76.4।।
Meaning
संवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते । तत्र दशरथं पुत्रः विललाप सुदुःखितः ।।2.76.5।।
Meaning
किं ते व्यवसितं राजन् प्रोषिते मय्यनागते । विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ।।2.76.6।।
Meaning
क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् । हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ।।2.76.7।।
Meaning
योगक्षेमं तु ते राजन् कोऽस्मिन् कल्पयिता पुरे । त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ।।2.76.8।।
Meaning
विधवा पृथिवी राजन् त्वया हीना न राजते । हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् ।।2.76.9।।
Meaning
एवं विलपमानं तं भरतं दीनमानसम् । अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ।।2.76.10।।
Meaning