← Ayodhyā Kāṇḍa

Sarga 76: Daśaratha's Funeral Rites

दशरथौर्ध्वदैहिकम्

daśarathaurdhvadaihikam — word-by-word gloss for all 23 shlokas.

Jump to a shloka · 23 in this sarga

Page 2 of 323 shlokas in this sarga (verified max-across-sources)
Shloka 76.11Word-by-word available

प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः । तान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ।।2.76.11।।

Meaning

Shloka 76.12Word-by-word available

तथेति भरतः वाक्यं वसिष्ठस्याभिपूज्य तत् । ऋत्विक्पुरोहिताचार्यान् त्वरयामास सर्वशः ।।2.76.12।।

Meaning

Shloka 76.13Word-by-word available

ये त्वग्नयो नरेन्द्रस्य चाग्न्यगाराद्बहिष्कृताः । ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि ।।2.76.13।।

Meaning

Shloka 76.14Word-by-word available

शिबिकायामथारोप्य राजानं गतचेतनम् । बाष्पकण्ठा विमनसः तमूहुः परिचारकाः ।।2.76.14।।

Meaning

Shloka 76.15Word-by-word available

हिरण्यं च सुवर्णं च वासांसि विविधानि च । प्रकिरन्तः जना मार्गं नृपतेरग्रतः ययुः ।।2.76.15।।

Meaning

Shloka 76.16Word-by-word available

चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा । देवदारूणि चाहृत्य क्षेपयन्ति तथापरे ।।2.76.16।।

Meaning

Shloka 76.17Word-by-word available

गन्धानुच्चावचांश्चान्यान् तत्र गत्वाथ भूमिपम् । ततः संवेशयामासुश्चितामध्ये तमृत्विजः ।।2.76.17।।

Meaning

Shloka 76.18Word-by-word available

तथा हुताशनं दत्वा जेपुस्तस्य तदृत्विजः । जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ।।2.76.18।।

Meaning

Shloka 76.19Word-by-word available

शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः । नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ।।2.76.19।।

Meaning

Shloka 76.20Word-by-word available

प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् । स्त्रियश्च शोकसन्तप्ताः कौसल्या प्रमुखास्तदा ।।2.76.20।।

Meaning