Sarga 35: Sumantra Rebukes Kaikeyī

सुमन्त्रगर्हणम्

sumantragarhaṇam — word-by-word gloss for all 37 shlokas.

Page 1 of 437 shlokas in this sarga (verified max-across-sources)
Shloka 35.1Word-by-word available

ततो निर्धूय सहसा शिरो निःश्वस्य चासकृत् । पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाप्य च ।।2.35.1।।

Meaning

Shloka 35.2Word-by-word available

लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत् । कोपाभिभूतः सहसा सन्तापमशुभं गतः ।।2.35.2।।

Meaning

Shloka 35.3Word-by-word available

मनः समीक्षमाणश्च सूतो दशरथस्य सः । कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ।।2.35.3।।

Meaning

Shloka 35.4Word-by-word available

वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः । कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ।।2.35.4।।

Meaning

Shloka 35.5Word-by-word available

यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् । भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च ।।2.35.5।।

Meaning

Shloka 35.6Word-by-word available

न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते । पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ।।2.35.6।।

Meaning

Shloka 35.7Word-by-word available

यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम् । महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः ।।2.35.7।।

Meaning

Shloka 35.8Word-by-word available

माऽवमंस्था दशरथं भर्तारं वरदं पतिम् । भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ।।2.35.8।।

Meaning

Shloka 35.9Word-by-word available

यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये । इक्ष्वाकुकुलनाथेऽस्मिंस्तल्लोपयितुमिच्छसि ।।2.35.9।।

Meaning

Shloka 35.10Word-by-word available

राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम् । वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ।।2.35.10।।

Meaning