Sarga 77: Lament of Bharata and Śatrughna

भरतशत्रुघ्नविलापः

bharataśatrughnavilāpaḥ — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 1 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 77.1Word-by-word available

ततो दशाहेऽतिगते कृतशौचः नृपात्मजः । द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् ।।2.77.1।।

Meaning

Shloka 77.2Word-by-word available

ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् । वासांसि च महार्हाणि रत्नानि विविधानि च ।।2.77.2।।

Meaning

Shloka 77.3Word-by-word available

बास्तिकं बहु शुक्लं च गाश्चापि शतशस्तथा । दासीदासं च यानं च वेश्मानि सुमहान्ति च ।।2.77.3।।

Meaning

Shloka 77.4Word-by-word available

ब्राह्मणेभ्यो ददौ पुत्रः राज्ञस्तस्यौर्ध्वदैहिकम् । ततः प्रभातसमये दिवसेऽथ त्रयोदशे ।।2.77.4।।

Meaning

Shloka 77.5Word-by-word available

विललाप महाबाहुर्भरतः शोकमूर्छितः । शब्दापिहितकण्ठश्च शोधनार्थमुपागतः ।।2.77.5।।

Meaning

Shloka 77.6Word-by-word available

चितामूले पितुर्वाक्यमिदमाह सुदुःखितः । तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे ।।2.77.6।।

Meaning

Shloka 77.7Word-by-word available

तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया । यथा गतिरनाथायाः पुत्रः प्रव्राजितः वनम् ।।2.77.7।।

Meaning

Shloka 77.8Word-by-word available

तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतोनृप । दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् ।।2.77.8।।

Meaning

Shloka 77.9Word-by-word available

पितुः शरीरनिर्वाणं निष्टनन् विषसाद सः । स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले ।।2.77.9।।

Meaning

Shloka 77.10Word-by-word available

उत्थाप्यमानः शक्रस्य यन्त्रध्वजैवच्युतः । अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् ।।2.77.10।।

Meaning