← Ayodhyā Kāṇḍa

Sarga 77: Lament of Bharata and Śatrughna

भरतशत्रुघ्नविलापः

bharataśatrughnavilāpaḥ — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 2 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 77.11Word-by-word available

अन्तकाले निपतितं ययातिमृषयो यथा । शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् ।।2.77.11।।

Meaning

Shloka 77.12Word-by-word available

विसञ्ज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् । उन्मत्तैव निश्चेता विललाप सुदुःखितः ।।2.77.12।।

Meaning

Shloka 77.13Word-by-word available

स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा । मन्थराप्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः ।।2.77.13।।

Meaning

Shloka 77.14Word-by-word available

वरदानमयोऽक्षोभ्यो अमज्जयच्छोकसागरः । सुकुमारं च बालं च सततं लालितं त्वया ।।2.77.14।।

Meaning

Shloka 77.15Word-by-word available

क्व तात भरतं हित्वा विलपन्तं गतः भवान् । ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ।।2.77.15।।

Meaning

Shloka 77.16Word-by-word available

प्रवारयसि नः सर्वान् तन्नः कोऽन्य करिष्यति । अवदारणकाले तु पृथिवी नावदीर्यते ।।2.77.16।।

Meaning

Shloka 77.17Word-by-word available

या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना । पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते ।।2.77.17।।

Meaning

Shloka 77.18Word-by-word available

किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् । हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् ।।2.77.18।।

Meaning

Shloka 77.19Word-by-word available

अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् । तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ।।2.77.19।।

Meaning

Shloka 77.20Word-by-word available

भृशमार्ततरा भूयः सर्व एवानुगामिनः । ततः विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ ।।2.77.20।।

Meaning