Sarga 77: Lament of Bharata and Śatrughna
भरतशत्रुघ्नविलापः
bharataśatrughnavilāpaḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ । ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः ।।2.77.21।।
Meaning
वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह । त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो ।।2.77.22।।
Meaning
सावशेषास्थिनिचये किमिह त्वं विलम्बसे । त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः ।।2.77.23।।
Meaning
तेषु चापरिहार्येषु नैवं भवितुमर्हति । सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च ।।2.77.24।।
Meaning
श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ । उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ ।।2.77.25।।
Meaning
वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव । अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ । अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः ।।2.77.26।।
Meaning