Sarga 25: A Mother's Blessing for the Journey

मातृस्वस्त्ययनम्

mātṛsvastyayanam — word-by-word gloss for all 47 shlokas.

Page 1 of 547 shlokas in this sarga (verified max-across-sources)
Shloka 25.1Word-by-word available

साऽपनीय तमायासमुपस्पृश्य जलं शुचिः। चकार माता रामस्य मङ्गलानि मनस्विनी ।।2.25.1।।

Meaning

Shloka 25.2Word-by-word available

न शक्यसे वारयितुं गच्छेदानीं रघूत्तम। शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे ।।2.25.2।।

Meaning

Shloka 25.3Word-by-word available

यं पालयसि धर्मं त्वं धृत्या च नियमेन च। स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ।।2.25.3।।

Meaning

Shloka 25.4Word-by-word available

येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च। ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ।।2.25.4।।

Meaning

Shloka 25.5Word-by-word available

यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता। तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ।।2.25.5।।

Meaning

Shloka 25.6Word-by-word available

पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा। सत्येन च महाबाहो चिरं जीवाभिरक्षितः ।।2.25.6।।

Meaning

Shloka 25.7Word-by-word available

समित्कुशपवित्राणि वेद्यश्चायतनानि च। स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः ।।2.25.7।।

Meaning

Shloka 25.8Word-by-word available

पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम। स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः ।।2.25.8।।

Meaning

Shloka 25.9Word-by-word available

स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा। लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ।।2.25.9।।

Meaning

Shloka 25.10Word-by-word available

ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः। दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा ।।2.25.10।।

Meaning