Sarga 33: The Citizens Speak
पौरवाक्यम्
pauravākyam — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु। जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ।।2.33.1।।
Meaning
ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे। मालादामभिराबद्धे सीतया समलङ्कृते ।।2.33.2।।
Meaning
ततः प्रासादहर्म्याणि विमानशिखराणि च। अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ।।2.33.3।।
Meaning
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः। आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम् ।।2.33.4।।
Meaning
पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः। ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ।।2.33.5।।
Meaning
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्। तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः ।।2.33.6।।
Meaning
ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः। नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ।।2.33.7।।
Meaning
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि। तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ।।2.33.8।।
Meaning
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्। वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्णताम् ।।2.33.9।।
Meaning
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते। न हि राजा प्रियं पुत्रं विवासयितुमिच्छति ।।2.33.10।।
Meaning