Sarga 33: The Citizens Speak
पौरवाक्यम्
pauravākyam — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम्। किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ।।2.33.11।।
Meaning
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः। राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ।।2.33.12।।
Meaning
तस्मात्तस्योपघातेन प्रजाः परमपीडिताः। औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात् ।।2.33.13।।
Meaning
पीडया पीडितं सर्वं जगदस्य जगत्पतेः। मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ।।2.33.14।।
Meaning
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः। पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ।।2.33.15।।
Meaning
ते लक्ष्मण इव क्षिप्रं सपत्न्यस्सहबान्धवाः। गच्छन्तमनुगच्छामो येन गच्छति राघवः ।।2.33.16।।
Meaning
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च। एकदुःखसुखा राममनुगच्छाम धार्मिकम् ।।2.33.17।।
Meaning
समुद्धृतनिधानानि परिध्वस्ताजिराणि च। उपात्तधनधान्यानि हृतसाराणि सर्वशः ।।2.33.18।।
Meaning
रजसाऽभ्यवकीर्णानि परित्यक्तानि दैवतैः। मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ।।2.33.19।।
Meaning
अपेतोदकधूमानि हीनसम्मार्जनानि च। प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च ।।2.33.20।।
Meaning