Sarga 19: Rāma's Pledge
रामप्रतिज्ञा
rāmapratijñā — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
तदप्रियममित्रघ्नो वचनं मरणोपमम्। श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ।।2.19.1।।
Meaning
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः। जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ।।2.19.2।।
Meaning
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः। नाभिनन्दति दुर्धर्षो यथापुरमरिन्दमः ।।2.19.3।।
Meaning
मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः। यास्यामि भव सुप्रीता वनं चीरजटाधरः ।।2.19.4।।
Meaning
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च। नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ।।2.19.5।।
Meaning
अलीकं मानसं त्वेकं हृदयं दहतीव मे। स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ।।2.19.6।।
Meaning
अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च। हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ।।2.19.7।।
Meaning
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः। तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ।।2.19.8।।
Meaning
तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः। वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ।।2.19.9।।
Meaning
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादद्यैव नृपशासनात् ।।2.19.10।।
Meaning