Sarga 19: Rāma's Pledge
रामप्रतिज्ञा
rāmapratijñā — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः। अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ।।2.19.11।।
Meaning
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी। प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ।।2.19.12।।
Meaning
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादुपावर्तयितुं नराः ।।2.19.13।।
Meaning
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्। राम तस्मादितो शीघ्रं वनं त्वं गन्तुमर्हसि ।।2.19.14।।
Meaning
व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते। नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् ।।2.19.15।।
Meaning
यावत्त्वं न वनं यातः पुरादस्मादभित्वरन्। पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा ।।2.19.16।।
Meaning
धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुतः। मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते ।।2.19.17।।
Meaning
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः। कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ।।2.19.18।।
Meaning
तदप्रियमनार्यायाः वचनं दारुणोदयम्। श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ।।2.19.19।।
Meaning
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे। विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ।।2.19.20।।
Meaning