Sarga 19: Rāma's Pledge
रामप्रतिज्ञा
rāmapratijñā — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
यदत्रभवतः किञ्चिच्छक्यं कर्तुं प्रियं मया। प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ।।2.19.21।।
Meaning
न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम्। यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ।।2.19.22।।
Meaning
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्। वने वत्स्यामि विजने वर्षाणीह चतुर्दश ।।2.19.23।।
Meaning
न नूनं मयि कैकेयि किञ्चिदाशंससे गुणम्। यद्राजानमवोचस्त्वं ममेश्वरतरा सती ।।2.19.24।।
Meaning
यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्। ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ।।2.19.25।।
Meaning
भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा। तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ।।2.19.26।।
Meaning
स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता। शोकादशक्नुवन्बाष्पं प्ररुरोदो महास्वनम् ।।2.19.27।।
Meaning
वन्दित्वा चरणौ रामो विसञ्ज्ञस्य पितुस्तदा। कैकेय्याश्चाप्यनार्यायाः निष्पपात महाद्युतिः ।।2.19.28।।
Meaning
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्। निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम् ।।2.19.29।।
Meaning
तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह। लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ।।2.19.30।।
Meaning