Sarga 19: Rāma's Pledge
रामप्रतिज्ञा
rāmapratijñā — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्। शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् ।।2.19.31।।
Meaning
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति। लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ।।2.19.32।।
Meaning
न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम्। सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ।।2.19.33।।
Meaning
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलङ्कृते। विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ।।2.19.34।।
Meaning
धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च। प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् ।।2.19.35।।
Meaning
सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः। नालक्षयत रामस्य किञ्चिदाकारमानने ।।2.19.36।।
Meaning
उचितं च महाबाहुर्न जहौ हर्षमात्मनः। शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ।।2.19.37।।
Meaning
वाचा मधुरया रामः सर्वं सम्मानयञ्जनम्। मातुः समीपं धर्मात्मा प्रविवेश महायशाः ।।2.19.38।।
Meaning
तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः। सौमित्रिरनुवव्राज धारयन्दुःखमात्मजम् ।।2.19.39।।
Meaning
प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम्। न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ।।2.19.40।।
Meaning