Sarga 5: The Vow-Observance Prescribed
व्रतचर्याविधानम्
vratacaryāvidhānam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने। पुरोहितं समाहूय वसिष्ठं चेदमब्रवीत् ।।2.5.1।।
Meaning
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन। श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ।।2.5.2।।
Meaning
तथेति च स राजानमुक्त्वा वेदविदां वरः। स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् ।।2.5.3।।
Meaning
उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः। ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः ।।2.5.4।।
Meaning
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्। तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ।।2.5.5।।
Meaning
तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमः। मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात् ।।2.5.6।।
Meaning
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः। ततोऽवतारयामास परिगृह्य रथात्स्वयम् ।।2.5.7।।
Meaning
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च। प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः ।।2.5.8।।
Meaning
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि। उपवासं भवानद्य करोतु सह सीतया ।।2.5.9।।
Meaning
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः। पिता दशरथः प्रीत्या ययातिं नहुषो यथा ।।2.5.10।।
Meaning