Sarga 5: The Vow-Observance Prescribed
व्रतचर्याविधानम्
vratacaryāvidhānam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
इत्युक्त्वा स तदा राममुपवासं यतव्रतम्। मन्त्रवित्कारयामास वैदेह्या सहितं मुनिः ।।2.5.11।।
Meaning
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः। अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ।।2.5.12।।
Meaning
सुहृद्भिस्तत्र रामोऽपि सुखासीनः प्रियंवदैः। सभाजितो विवेशाऽथ ताननुज्ञाप्य सर्वशः ।।2.5.13।।
Meaning
प्रहृष्टनरनारीकं रामवेश्म तदा बभौ। यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ।।2.5.14।।
Meaning
स राजभवनप्रख्यात्तस्माद्रामनिवेशनात्। निःसृत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ।।2.5.15।।
Meaning
बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः। बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः ।।2.5.16।।
Meaning
जनबृन्दोर्मिसङ्घर्षहर्षस्वनवतस्तदा। बभूव राजमार्गस्य सागरस्येव निस्वनः ।।2.5.17।।
Meaning
सिक्तसंमृष्टरथ्या च तदहर्वनमालिनी। आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ।।2.5.18।।
Meaning
तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः। रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः ।।2.5.19।।
Meaning
प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम्। उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ।।2.5.20।।
Meaning