Sarga 104: Dialogue of Rāma and Bharata
रामभरतसंवादः
rāmabharatasaṃvādaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ।।2.104.1।।
Meaning
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ।।2.104.2।।
Meaning
किं निमित्तमिमं देशं कृष्णाजिनजटाधरः । हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ।।2.104.3।।
Meaning
इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना । प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ।।2.104.4।।
Meaning
आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ।।2.104.5।।
Meaning
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप । चकार सुमहत्पापमिदमात्मयशोहरम् ।।2.104.6।।
Meaning
सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोरे निरये जननी मम ।।2.104.7।।
Meaning
तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि । अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ।।2.104.8।।
Meaning
इमाः प्रकृतयः सर्वा विधवा मातरश्च याः । त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि ।।2.104.9।।
Meaning
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ।।2.104.10।।
Meaning