Sarga 60: Kausalyā Consoled

कौसल्यासमाश्वासनम्

kausalyāsamāśvāsanam — word-by-word gloss for all 23 shlokas.

Jump to a shloka · 23 in this sarga

Page 1 of 323 shlokas in this sarga (verified max-across-sources)
Shloka 60.1Word-by-word available

ततः भूतोपसृष्टेव वेपमाना पुनः पुनः । धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ।।2.60.1।।

Meaning

Shloka 60.2Word-by-word available

नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः । तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ।।2.60.2।।

Meaning

Shloka 60.3Word-by-word available

निवर्तय रथं शीघ्रं दण्डकान्नय मामपि । अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ।।2.60.3।।

Meaning

Shloka 60.4Word-by-word available

बाष्पवेगोपहतया स वाचा सज्जमानया । इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ।।2.60.4।।

Meaning

Shloka 60.5Word-by-word available

त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा । व्यवधूय च सन्तापं वने वत्स्यति राघवः ।।2.60.5।।

Meaning

Shloka 60.6Word-by-word available

लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने । आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ।।2.60.6।।

Meaning

Shloka 60.7Word-by-word available

विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव । विस्रम्भं लभतेऽभीता रामे संन्यस्तमानसा ।।2.60.7।।

Meaning

Shloka 60.8Word-by-word available

नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते । उचितेव प्रवासानां वैदेही प्रतिभाति मा ।।2.60.8।।

Meaning

Shloka 60.9Word-by-word available

नगरोपवनं गत्वा यथा स्म रमते पुरा । तथैव रमते सीता निर्जनेषु वनेष्वपि ।।2.60.9।।

Meaning

Shloka 60.10Word-by-word available

बालेव रमते सीता बालचन्द्रनिभानना । रामा रामे ह्यदीनात्मा विजनेऽपि वने सती ।।2.60.10।।

Meaning