Sarga 55: Crossing the Yamunā
यमुनातरणम्
yamunātaraṇam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ । महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ।।2.55.1।।
Meaning
तेषां चैव स्वस्त्ययनं महर्षिः स चकार ह । प्रस्थितांश्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ।।2.55.2।।
Meaning
ततः प्रचक्रमे वक्तुं वचनं स महामुनिः । भरद्वाजो महातेजाः रामं सत्यपराक्रमम् ।।2.55.3।।
Meaning
गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ । कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ।।2.55.4।।
Meaning
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् । तस्यास्तीर्थं प्रचरितं पुराणं प्रेक्ष्य राघवौ ।।2.55.5।।
Meaning
तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् । ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ।।2.55.6।।
Meaning
विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् । तस्मै सीताऽञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः ।।2.55.7।।
Meaning
समासाद्य तु तं वृक्षं वसेद्वाऽतिक्रमेत वा । क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ।।2.55.8।।
Meaning
पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः । स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ।।2.55.9।।
Meaning
रम्यो मार्दवयुक्तश्च वनदावैर्विपर्जितः । इति पन्थानमावेद्य महर्षिः संन्यवर्ततः ।।2.55.10।।
Meaning