← Ayodhyā Kāṇḍa

Sarga 55: Crossing the Yamunā

यमुनातरणम्

yamunātaraṇam — word-by-word gloss for all 34 shlokas.

Page 2 of 434 shlokas in this sarga (verified max-across-sources)
Shloka 55.11Word-by-word available

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः । उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ।।2.55.11।।

Meaning

Shloka 55.12Word-by-word available

कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते । इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ।।2.55.12।।

Meaning

Shloka 55.13Word-by-word available

सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् । अथाऽसाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् ।।2.55.13।।

Meaning

Shloka 55.14Word-by-word available

तौ काष्ठसङ्घाटमथो चक्रतुस्सुमहाप्लवम् ।।2.55.14।।

Meaning

Shloka 55.15Word-by-word available

शुष्कैर्वंशैः समास्तीर्णमुशीरैश्च समावृतम् । ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ।।2.55.15।।

Meaning

Shloka 55.16Word-by-word available

चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् । तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् ।।2.55.16।।

Meaning

Shloka 55.17Word-by-word available

ईषत्संलज्जमानां तामध्यारोपयत प्लवम् । पार्श्वे च तत्र वैदेह्या वसने भूषणानि च ।।2.55.17।।

Meaning

Shloka 55.18Word-by-word available

प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः । आरोप्य प्रथमं सीतां सङ्घाटं प्रतिगृह्य तौ ।।2.55.18।।

Meaning

Shloka 55.19Word-by-word available

ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ । कालिन्दीमध्यमायाता सीता त्वेनामवन्दत ।।2.55.19।।

Meaning

Shloka 55.20Word-by-word available

स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्व्रतम् । यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च ।।2.55.20।।

Meaning