Sarga 55: Crossing the Yamunā
यमुनातरणम्
yamunātaraṇam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् । कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः ।।2.55.21।।
Meaning
तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी । ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ।।2.55.22।।
Meaning
तीरजैर्बहुभिर्वृक्षैः सन्तेरुर्यमुनां नदीम् । ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ।।2.55.23।।
Meaning
श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् । न्यग्रोधं तमुपागम्य वैदेहि वाक्यमब्रवीत् ।।2.55.24।।
Meaning
नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् । कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् ।।2.55.25।।
Meaning
इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् । अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ।।2.55.26।।
Meaning
दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् । सीतामादाय गच्छ त्वमग्रतो भरतानुज ।।2.55.27।।
Meaning
पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदां वर । यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ।।2.55.28।।
Meaning
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः । गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा ।।2.55.29।।
Meaning
मातङ्गयोर्मध्यगता शुभा नागवधूरिव । एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ।।2.55.30।।
Meaning