Sarga 82: The Army Set in Motion
सेनाप्रस्थापनम्
senāprasthāpanam — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् । ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रो निशामिव ।।2.82.1।।
Meaning
आसनानि यथान्यायमार्याणां विशतां तदा । वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा ।।2.82.2।।
Meaning
सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा । अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ।।2.82.3।।
Meaning
राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् । इदं पुरोहितः वाक्यं भरतं मृदु चाब्रवीत् ।।2.82.4।।
Meaning
तात राजा दशरथः स्वर्गतो धर्ममाचरन् । धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव ।।2.82.5।।
Meaning
रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् । नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः ।।2.82.6।।
Meaning
पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् । तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय ।।2.82.7।।
Meaning
उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः । कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते ।।2.82.8।।
Meaning
तच्छ्रुत्वा भरतः वाक्यं शोकेनाभिपरिप्लुतः । जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया ।।2.82.9।।
Meaning
स बाष्पकलया वाचा कलहंसस्वरः युवा । विललाप सभामध्ये जगर्हे च पुरोहितम् ।।2.82.10।।
Meaning