← Ayodhyā Kāṇḍa

Sarga 82: The Army Set in Motion

सेनाप्रस्थापनम्

senāprasthāpanam — word-by-word gloss for all 32 shlokas.

Page 2 of 432 shlokas in this sarga (verified max-across-sources)
Shloka 82.11Word-by-word available

चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः । धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ।।2.82.11।।

Meaning

Shloka 82.12Word-by-word available

कथं दशरथाज्ञातः भवेद्राज्यापहारकः । राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि ।।2.82.12।।

Meaning

Shloka 82.13Word-by-word available

ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः । लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा ।।2.82.13।।

Meaning

Shloka 82.14Word-by-word available

अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि । इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ।।2.82.14।।

Meaning

Shloka 82.15Word-by-word available

यद्धि मात्रा कृतं पापं नाहं तदपिरोचये । इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ।।2.82.15।।

Meaning

Shloka 82.16Word-by-word available

राममेवानुगच्छामि स राजा द्विपदां वरः । त्रयाणामपि लोकानां राज्यमर्हति राघवो ।।2.82.16।।

Meaning

Shloka 82.17Word-by-word available

तद्वाक्यं धर्मसम्युक्तं श्रुत्वा सर्वे सभासदः । हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः ।।2.82.17।।

Meaning

Shloka 82.18Word-by-word available

यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् । वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा ।।2.82.18।।

Meaning

Shloka 82.19Word-by-word available

सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् । समक्षमार्यमिश्राणां साधूनां गुणवर्तिनाम् ।।2.82.19।।

Meaning

Shloka 82.20Word-by-word available

विष्टिकर्मान्तिकाः सर्वे मार्गशोधकरक्षकाः । प्रस्थापिता मया पूर्वं यात्रापि मम रोचते ।।2.82.20।।

Meaning