← Ayodhyā Kāṇḍa

Sarga 82: The Army Set in Motion

सेनाप्रस्थापनम्

senāprasthāpanam — word-by-word gloss for all 32 shlokas.

Page 3 of 432 shlokas in this sarga (verified max-across-sources)
Shloka 82.21Word-by-word available

एवमुक्त्वा तु धर्मात्मा भरतः भ्रातृवत्सलः । समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् ।।2.82.21।।

Meaning

Shloka 82.22Word-by-word available

तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् । यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ।।2.82.22।।

Meaning

Shloka 82.23Word-by-word available

एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना । हृष्टस्तदादिशत्सर्वं यथासन्दिष्टमिष्टवत् ।।2.82.23।।

Meaning

Shloka 82.24Word-by-word available

ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च । श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने ।।2.82.24।।

Meaning

Shloka 82.25Word-by-word available

ततः योधाङ्गनाः सर्वा भर्तृन् सर्वान् गृहे गृहे । यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिताः ।।2.82.25।।

Meaning

Shloka 82.26Word-by-word available

ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च महाजवैः । सहयोधैः बलाध्यक्षाः बलं सर्वमचोदयन् ।।2.82.26।।

Meaning

Shloka 82.27Word-by-word available

सज्जं तु तद्बलं दृष्ट्वा भरतः गुरुसन्निधौ । रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् ।।2.82.27।।

Meaning

Shloka 82.28Word-by-word available

भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षितः । रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ।।2.82.28।।

Meaning

Shloka 82.29Word-by-word available

स राघवः सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः । गुरुं महारण्यगतं यशस्विनम् प्रसादयिष्यन्भरतोऽब्रवीत्तदा ।।2.82.29।।

Meaning

Shloka 82.30Word-by-word available

तूर्णं समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान् । आनेतुमिच्छामि हि तं वनस्थम् प्रसाद्य रामं जगतः हिताय ।।2.82.30।।

Meaning