Sarga 109: In Praise of Truth
सत्यप्रशंसा
satyapraśaṃsā — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः । उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ।।2.109.1।।
Meaning
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्यं कार्यसङ्काशमपथ्यं पथ्यसम्मितम् ।।2.109.2।।
Meaning
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः । मानं न लभते सत्सु भिन्नचारित्रदर्शनः ।।2.109.3।।
Meaning
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् । चारित्रमेवव्याख्याति शुचिं वा यदि वाशुचिम् ।।2.109.4।।
Meaning
अनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः । लक्षण्यवदलक्षण्यो दुःशील शीलवानिव ।।2.109.5।।
Meaning
अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् । अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ।।2.109.6।।
Meaning
कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः । बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ।।2.109.7।।
Meaning
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् । अनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया ।।2.109.8।।
Meaning
कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते । यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ।।2.109.9।।
Meaning
सत्यमेवानृशंसं च राजवृत्तं सनातनम् । तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ।।2.109.10।।
Meaning