← Ayodhyā Kāṇḍa

Sarga 109: In Praise of Truth

सत्यप्रशंसा

satyapraśaṃsā — word-by-word gloss for all 39 shlokas.

Page 2 of 439 shlokas in this sarga (verified max-across-sources)
Shloka 109.11Word-by-word available

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ।।2.109.11।।

Meaning

Shloka 109.12Word-by-word available

उद्विजन्ते यथा सर्पान्नरादनृतवादिनः । धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ।।2.109.12।।

Meaning

Shloka 109.13Word-by-word available

सत्यमेवैश्वरो लोके सत्यं पद्मा श्रिता सदा । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ।।2.109.13।।

Meaning

Shloka 109.14Word-by-word available

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ।।2.109.14।।

Meaning

Shloka 109.15Word-by-word available

एकः पालयते लोकमेकः पालयते कुलम् । मज्जत्येको हि निरयैकः स्वर्गे महीयते ।।2.109.15।।

Meaning

Shloka 109.16Word-by-word available

सोऽहं पितुर्नियोगन्तु किमर्थं नानुपालये । सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ।।2.109.16।।

Meaning

Shloka 109.17Word-by-word available

नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोऽन्वितः । सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ।।2.109.17।।

Meaning

Shloka 109.18Word-by-word available

असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः । नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ।।2.109.18।।

Meaning

Shloka 109.19Word-by-word available

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् । भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ।।2.109.19।।

Meaning

Shloka 109.20Word-by-word available

क्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् । क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ।।2.109.20।।

Meaning