Sarga 109: In Praise of Truth
सत्यप्रशंसा
satyapraśaṃsā — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
कायेन कुरुते पापं मनसा सम्प्रधार्य च । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ।।2.109.21।।
Meaning
भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि । स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ।।2.109.22।।
Meaning
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् । आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ।।2.109.23।।
Meaning
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ । भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ।।2.109.24।।
Meaning
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ । प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ।।2.109.25।।
Meaning
वनवासं वसन्नेव शुचिर्नियतभोजनः । मूलैः पुष्पैः फलैः पुण्यैः पितन् देवांश्च तर्पयन् ।।2.109.26।।
Meaning
सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये । अकुहः श्रद्दधानस्सन् कार्याकार्यविचक्षणः ।।2.109.27।।
Meaning
कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् । अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ।।2.109.28।।
Meaning
शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः । तपांस्युग्राणि चास्थाय दिवं याता महर्षयः ।।2.109.29।।
Meaning
अमृष्यमाणः पुनरुग्रतेजाः निशम्य तन्नास्तिकवाक्यहेतुम् । अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ।।2.109.30।।
Meaning