Sarga 86: Guha's Account

गुहवाक्यम्

guhavākyam — word-by-word gloss for all 25 shlokas.

Jump to a shloka · 25 in this sarga

Page 1 of 325 shlokas in this sarga (verified max-across-sources)
Shloka 86.1Word-by-word available

आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः । भरतायाप्रमेयाय गुहो गहनगोचरः ।।2.86.1।।

Meaning

Shloka 86.2Word-by-word available

तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् । भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम् ।।2.86.2।।

Meaning

Shloka 86.3Word-by-word available

इयं तात सुखा शय्या त्वदर्थमुपकल्पिता । प्रत्याश्वसि हि शेष्वास्यां सुखं राघवनन्दन ।।2.86.3।।

Meaning

Shloka 86.4Word-by-word available

उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचितः । धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ।।2.86.4।।

Meaning

Shloka 86.5Word-by-word available

न हि रामात्प्रियतरो ममास्ति भुवि कश्चन । मोत्सुकोभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः ।।2.86.5।।

Meaning

Shloka 86.6Word-by-word available

अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः । धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ।।2.86.6।।

Meaning

Shloka 86.7Word-by-word available

सोऽहं प्रियसखं रामं शयानं सह सीतया । रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह ।।2.86.7।।

Meaning

Shloka 86.8Word-by-word available

न हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतः सदा । चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि ।।2.86.8।।

Meaning

Shloka 86.9Word-by-word available

एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना । अनुनीता वयं सर्वे धर्ममेवानुपश्यता ।।2.86.9।।

Meaning

Shloka 86.10Word-by-word available

कथं दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ।।2.86.10।।

Meaning