Sarga 28: The Hardships of the Forest Explained
वनदुःखप्रतिबोधनम्
vanaduḥkhapratibodhanam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ।।2.28.1।।
Meaning
सान्त्वयित्वा पुनस्तां तु बाष्पपर्याकुलेक्षणाम्। निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ।।2.28.2।।
Meaning
सिते महाकुलीनाऽसि धर्मे च निरता सदा। इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् ।।2.28.3।।
Meaning
सिते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाऽबले। वने दोषा हि बहवो वदतस्तान्निबोध मे ।।2.28.4।।
Meaning
सिते विमुच्यतामेषा वनवासकृता मतिः। बहुदोषं हि कान्तारं वनमित्यभिधीयते ।।2.28.5।।
Meaning
हितबुद्ध्या खलु वचो मयैतदभिधीयते। सदा सुखं न जानामि दुःखमेव सदा वनम् ।।2.28.6।।
Meaning
गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम्। सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ।।2.28.7।।
Meaning
क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः। दृष्ट्वा समभिवर्तन्ते सिते दुःखमतो वनम् ।।2.28.8।।
Meaning
सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः। मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ।।2.28.9।।
Meaning
लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः। निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ।।2.28.10।।
Meaning