Sarga 28: The Hardships of the Forest Explained
वनदुःखप्रतिबोधनम्
vanaduḥkhapratibodhanam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले। रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ।।2.28.11।।
Meaning
अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना। फलैर्वृक्षावपतितैः सिते दुःखमतो वनम् ।।2.28.12।।
Meaning
उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि। जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा ।।2.28.13।।
Meaning
देवतानां पितृणां च कर्तव्यं विधिपूर्वकम्। प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ।।2.28.14।।
Meaning
कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः। चरता नियमेनैव तस्माद्दुःखतरं वनम् ।।2.28.15।।
Meaning
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः। आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ।।2.28.16।।
Meaning
यथालब्धेन सन्तोषः कर्तव्यस्तेन मैथिलि। यताहारैर्वनचरैर्नित्यं दुःखमतो वनम् ।।2.28.17।।
Meaning
अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः। भयानि च महान्त्यत्र ततो दुःखतरं वनम् ।।2.28.18।।
Meaning
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि। चरन्ति पृथिवीं दर्पात्ततो दुःखतरं वनम् ।।2.28.19।।
Meaning
नदीनिलयनाः सर्पा नदीकुटिलगामिनः। तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम् ।।2.28.20।।
Meaning