Sarga 58: Rāma's Message Reported
रामसन्देशाख्यानम्
rāmasandeśākhyānam — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः । अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ।।2.58.1।।
Meaning
तदा सूतो महाराजं कृताञ्जलिरुपस्थितः । राममेवानुशोचन्तं दुःखशोकसमन्वितम् ।।2.58.2।।
Meaning
वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् । विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ।।2.58.3।।
Meaning
राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम् । अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ।।2.58.4।।
Meaning
क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः । सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः ।।2.58.5।।
Meaning
दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः । भूमिपालात्मजो भूमौ शेते कथमनाथवत् ।।2.58.6।।
Meaning
यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः । स वत्स्यति कथं रामः विजनं वनमाश्रितः ।।2.58.7।।
Meaning
व्यालैः मृगैः आचरितं कृष्णसर्पनिषेवितम् । कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ ।।2.58.8।।
Meaning
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया । राजपुत्रौ कथं पादैः अवरुह्य रथाद्गतौ ।।2.58.9।।
Meaning
सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ । वनान्तं प्रविशन्तौ तौ अश्विनाविव मन्दरम् ।।2.58.10।।
Meaning