Sarga 58: Rāma's Message Reported
रामसन्देशाख्यानम्
rāmasandeśākhyānam — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
किमुवाच वचो रामः किमुवाच च लक्ष्मणः । सुमन्त्र वनमासाद्य किमुवाच च मैथिली ।।2.58.11।।
Meaning
आसितं शयितं भुक्तं सूत रामस्य कीर्तय । जीविष्याम्यहमेतेन ययातिरिव साधुषु ।।2.58.12।।
Meaning
इति सूतो नरेन्द्रेण चोदितः सज्जमानया । उवाच वाचा राजानं सबाष्पपरिरब्धया ।।2.58.13।।
Meaning
अब्रवीन्मां महाराज धर्ममेवानुपालयन् । अञ्जलिं राघवः कृत्वा शिरसाऽभिप्रणम्य च ।।2.58.14।।
Meaning
सूत मद्वचनात्तस्य तातस्य विदितात्मनः । शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ।।2.58.15।।
Meaning
सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया । आरोग्यमविशेषेण यथाऽर्हं चाभिवादनम् ।।2.58.16।।
Meaning
माता च मम कौसल्या कुशलं चाभिवादनम् । अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ।।2.58.17।।
Meaning
धर्मनित्या यथाकालमग्न्यगारपरा भव । देवि देवस्य पादौ च देववत् परिपालय ।।2.58.18।।
Meaning
अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु । अनुराजानमार्यां च कैकेयीमम्ब कारय ।।2.58.19।।
Meaning
कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् । अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ।।2.58.20।।
Meaning