Sarga 58: Rāma's Message Reported
रामसन्देशाख्यानम्
rāmasandeśākhyānam — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
भरतः कुशलं वाच्यः वाच्यो मद्वचनेन च । सर्वास्वैव यथान्यायं वृत्तिं वर्तस्व मातृषु ।।2.58.21।।
Meaning
वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः । पितरं यौवराज्यस्थो राज्यस्थमनुपालय ।।2.58.22।।
Meaning
अतिक्रान्तवया राजा मास्मैनं व्यवरोरुधः । कुमारराज्ये जीवत्वं तस्यैवाज्ञाप्रवर्तनात् ।।2.58.23।।
Meaning
अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् । मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ।।2.58.24।।
Meaning
इत्येवं मां महाराज ब्रुवन्नेव महायशाः । रामः राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ।।2.58.25।।
Meaning
लक्ष्मणस्तु सुसङ्क्रुद्धो निश्श्वसन् वाक्यमब्रवीत् । केनायमपराधेन राजपुत्रः विवासितः ।।2.58.26।।
Meaning
राज्ञा तु खलु कैकेय्या लघुत्वाश्रित्य शासनम् । कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः ।।2.58.27।।
Meaning
यदि प्रव्राजितः रामः लोभकारणकारितम् । वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ।।2.58.28।।
Meaning
इदं तावद्यथाकाममीश्वरस्य कृते कृतम् । रामस्य तु परित्यागे न हेतुमुपलक्षये ।।2.58.29।।
Meaning
असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् । जनयिष्यति सङ्क्रोशं राघवस्य विवासनम् ।।2.58.30।।
Meaning