Sarga 58: Rāma's Message Reported
रामसन्देशाख्यानम्
rāmasandeśākhyānam — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
अहं तावन् महाराजे पितृत्वं नोपलक्षये । भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ।।2.58.31।।
Meaning
सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् । सर्वलोकोऽनुरज्येत कथं त्वाऽनेन कर्मणा ।।2.58.32।।
Meaning
सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम् । सर्वलोकं विरुध्येमं कथं राजा भविष्यसि ।।2.58.33।।
Meaning
जानकी तु महाराज निःश्वसन्ती मनस्विनी । भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ।।2.58.34।।
Meaning
अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी । तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ।।2.58.35।।
Meaning
उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता । मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ।।2.58.36।।
Meaning
तथैव रामोऽश्रुमुखः कृताञ्जलिः । स्थितोऽभवल्लक्ष्मणबाहुपालितः । तथैव सीता रुदती तपस्विनी । निरीक्षते राजरथं तथैव माम् ।।2.58.37।।
Meaning