Sarga 100: Rāma's Questions on Kingship
कच्चित्सर्गः
kaccitsargaḥ — word-by-word gloss for all 76 shlokas.
Jump to a shloka · 76 in this sarga
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ।।2.100.1।।
Meaning
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । भ्रातरं भरतं रामः परिजग्राह बाहुना ।।2.100.2।।
Meaning
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः । अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः ।।2.100.3।।
Meaning
क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः । न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ।।2.100.4।।
Meaning
चिरस्य बत पश्यामि दूराद्भरतमागतम् । दुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः ।।2.100.5।।
Meaning
कच्चिद्धारयते तात राजा यत्त्वमिहागतः । कच्चिन्नदीनः सहसा राजा लोकान्तरं गतः ।।2.100.6।।
Meaning
कच्चित्सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् । कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ।।2.100.7।।
Meaning
कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः । राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः ।।2.100.8।।
Meaning
स कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः । इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ।।2.100.9।।
Meaning
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चिदार्या च देवी नन्दति कैकयी ।।2.100.10।।
Meaning