← Ayodhyā Kāṇḍa

Sarga 100: Rāma's Questions on Kingship

कच्चित्सर्गः

kaccitsargaḥ — word-by-word gloss for all 76 shlokas.

Page 2 of 876 shlokas in this sarga (verified max-across-sources)
Shloka 100.11Word-by-word available

कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः । अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ।।2.100.11।।

Meaning

Shloka 100.12Word-by-word available

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । हुतं च होष्यमाणं च काले वेदयते सदा ।।2.100.12।।

Meaning

Shloka 100.13Word-by-word available

कच्चिद्देवान्पितॄन्मातॄः गुरून्पितृसमानपि । वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ।।2.100.13।।

Meaning

Shloka 100.14Word-by-word available

इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ।।2.100.14।।

Meaning

Shloka 100.15Word-by-word available

कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः । कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ।।2.100.15।।

Meaning

Shloka 100.16Word-by-word available

मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ।।2.100.16।।

Meaning

Shloka 100.17Word-by-word available

कच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ।।2.100.17।।

Meaning

Shloka 100.18Word-by-word available

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ।।2.100.18।।

Meaning

Shloka 100.19Word-by-word available

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ।।2.100.19।।

Meaning

Shloka 100.20Word-by-word available

कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः । विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ।।2.100.20।।

Meaning