Sarga 100: Rāma's Questions on Kingship
कच्चित्सर्गः
kaccitsargaḥ — word-by-word gloss for all 76 shlokas.
Jump to a shloka · 76 in this sarga
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः । त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् ।।2.100.21।।
Meaning
कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्श्रेयसं महत् ।।2.100.22।।
Meaning
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः । अथवाप्ययुतान्येव नास्ति तेषु सहायता ।।2.100.23।।
Meaning
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ।।2.100.24।।
Meaning
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ।।2.100.25।।
Meaning
अमात्यानुपधातीतान्पितृपैतामहाञ्छुचीन् । श्रेष्ठान्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ।।2.100.26।।
Meaning
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् । राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत ।।2.100.27।।
Meaning
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा । उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ।।2.100.28।।
Meaning
उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ।।2.100.29।।
Meaning
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमान् शुचिः । कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ।।2.100.30।।
Meaning