← Ayodhyā Kāṇḍa

Sarga 100: Rāma's Questions on Kingship

कच्चित्सर्गः

kaccitsargaḥ — word-by-word gloss for all 76 shlokas.

Page 4 of 876 shlokas in this sarga (verified max-across-sources)
Shloka 100.31Word-by-word available

बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः । दृष्टापदाना विक्रान्तास्त्वया सत्कृत्यमानिताः ।।2.100.31।।

Meaning

Shloka 100.32Word-by-word available

कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ।।2.100.32।।

Meaning

Shloka 100.33Word-by-word available

कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः । भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ।।2.100.33।।

Meaning

Shloka 100.34Word-by-word available

कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः ।।2.100.34।।

Meaning

Shloka 100.35Word-by-word available

कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान् । यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ।।2.100.35।।

Meaning

Shloka 100.36Word-by-word available

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ।।2.100.36।।

Meaning

Shloka 100.37Word-by-word available

कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्तसे रिपुसूदन ।।2.100.37।।

Meaning

Shloka 100.38Word-by-word available

कच्चिन्न लोकायतिकान्ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बालाः पण्डितमानिनः ।।2.100.38।।

Meaning

Shloka 100.39Word-by-word available

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ।।2.100.39।।

Meaning

Shloka 100.40Word-by-word available

वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः । सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ।।2.100.40।।

Meaning