Sarga 111: Counsel to Bharata

भरतानुशासनम्

bharatānuśāsanam — word-by-word gloss for all 32 shlokas.

Page 1 of 432 shlokas in this sarga (verified max-across-sources)
Shloka 111.1Word-by-word available

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः । अब्रवीद्धर्मसम्युक्तं पुनरेवापरं वचः ।।2.111.1।।

Meaning

Shloka 111.2Word-by-word available

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः । आचार्यश्चैव काकुत्स्थ पिता माता च राघव ।।2.111.2।।

Meaning

Shloka 111.3Word-by-word available

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ।।2.111.3।।

Meaning

Shloka 111.4Word-by-word available

सोऽहं ते पितुराचार्यस्तव चैव परन्तप । मम त्वं वचनं कुर्वन् नातिवर्तेः सताङ्गतिम् ।।2.111.4।।

Meaning

Shloka 111.5Word-by-word available

इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा । एषु तात चरन् धर्मं नातिवर्तेः सताङ्गतिम् ।।2.111.5।।

Meaning

Shloka 111.6Word-by-word available

वृद्धाया धर्मशीलायाः मातुर्नार्हस्यवर्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्तेः सताङ्गतिम् ।।2.111.6।।

Meaning

Shloka 111.7Word-by-word available

भरतस्य वचः कुर्वन् याचमानस्य राघव । आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम ।।2.111.7।।

Meaning

Shloka 111.8Word-by-word available

एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ।।2.111.8।।

Meaning

Shloka 111.9Word-by-word available

यन्मातापितरौ वृत्तं तनये कुरुतः सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ।।2.111.9।।

Meaning

Shloka 111.10Word-by-word available

यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्धनेन च ।।2.111.10।।

Meaning