Sarga 111: Counsel to Bharata
भरतानुशासनम्
bharatānuśāsanam — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
स हि राजा जनयिता पिता दशरथो मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ।।2.111.11।।
Meaning
एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् । उवाच परमोदारः सूतं परमदुर्मनाः ।।2.111.12।।
Meaning
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ।।2.111.13।।
Meaning
अनाहारो निरालोको धनहीनो यथा द्विजः । शेष्ये पुरस्तात् शालायाः यावन्न प्रतियास्यति ।।2.111.14।।
Meaning
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः । कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ।।2.111.15।।
Meaning
तमुवाच महातेजाः रामो राजर्षिसत्तमः । किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ।।2.111.16।।
Meaning
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति । न तु मूर्धाभिषिक्तानां विधिः प्रत्युपवेशने ।।2.111.17।।
Meaning
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् । पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ।।2.111.18।।
Meaning
आसीनस्त्वेव भरतः पौरजानपदं जनम् । उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ।।2.111.19।।
Meaning
ते तमूचुर्महात्मानं पौरजानपदा जनाः । काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ।।2.111.20।।
Meaning