Sarga 111: Counsel to Bharata
भरतानुशासनम्
bharatānuśāsanam — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति । अतैव न शक्ताः स्मो व्यावर्तयितुमञ्जसा ।।2.111.21।।
Meaning
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ।।2.111.22।।
Meaning
एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ।।2.111.23।।
Meaning
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ।।2.111.24।।
Meaning
न याचे पितरं राज्यं नानुशासामि मातरम् । आर्यं परमधर्मज्ञं नानुजानामि राघवम् ।।2.111.25।।
Meaning
यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः । अहमेव निवत्स्यामि चतुर्दश समा वने ।।2.111.26।।
Meaning
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः । उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ।।2.111.27।।
Meaning
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ।।2.111.28।।
Meaning
उपधिर्न मया कार्य्यो वनवासे जुगुप्सितः । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ।।2.111.29।।
Meaning
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ।।2.111.30।।
Meaning