Sarga 78: Kubjā Thrown Down
कुब्जाविक्षेपः
kubjāvikṣepaḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
अथ यात्रां समीहन्तं शत्रुघ्नः लक्ष्मणानुजः । भरतं शोकसन्तप्तमिदं वचनमब्रवीत् ।।2.78.1।।
Meaning
गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः । स रामः सत्त्वसम्पन्नः स्त्रिया प्रव्राजितः वनम् ।।2.78.2।।
Meaning
बलवान् वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ । किं न मोचयते रामं कृत्वा अपि पितृनिग्रहम् ।।2.78.3।।
Meaning
पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ । उत्पथं यः समारूढो नार्या राजा वशं गतः ।।2.78.4।।
Meaning
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे । प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ।।2.78.5।।
Meaning
लिप्ता चन्दनसारेन राजवस्त्राणि बिभ्रती । विविधं विविधैस्तैस्तैर्भूषणैश्च विभूषिता ।।2.78.6।।
Meaning
मेखलादामभिश्चित्रैः अन्यैश्च शुभभूषणैः । बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी ।।2.78.7।।
Meaning
तां समीक्ष्य तदा द्वास्थाः सुभृशं पापकारिणीम् । गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् ।।2.78.8।।
Meaning
यस्याः कृते वने रामोन्यस्तदेहश्च वः पिता । सेयं पापा नृशंसा च तस्याः कुरु यथामति ।।2.78.9।।
Meaning
शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः । अन्तःपुरचरान् सर्वान् इत्युवाच धृतव्रतः ।।2.78.10।।
Meaning