← Ayodhyā Kāṇḍa

Sarga 78: Kubjā Thrown Down

कुब्जाविक्षेपः

kubjāvikṣepaḥ — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 2 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 78.11Word-by-word available

तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः । यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ।।2.78.11।।

Meaning

Shloka 78.12Word-by-word available

एवमुक्ता तु तेनाशु सखीजनसमावृता । गृहीता बलवत् कुब्जा सा तद्गृहमनादयत् ।।2.78.12।।

Meaning

Shloka 78.13Word-by-word available

ततः सुभृशसन्तप्तस्तस्याः सर्वः सखीजनः । क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः ।।2.78.13।।

Meaning

Shloka 78.14Word-by-word available

आमन्त्रयत कृत्स्नश्च तस्याः सर्वसखीजनः । यथायं समुपक्रान्तो निश्शेषं नः करिष्यति ।।2.78.14।।

Meaning

Shloka 78.15Word-by-word available

सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् । कौसल्यां शरणं यामः सा हि नोऽस्तु ध्रुवा गतिः ।।2.78.15।।

Meaning

Shloka 78.16Word-by-word available

स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः । विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले ।।2.78.16।।

Meaning

Shloka 78.17Word-by-word available

तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः । चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ।।2.78.17।।

Meaning

Shloka 78.18Word-by-word available

तेन भाण्डेन संस्तीर्णं श्रीमद्राजनिवेशनम् । अशोभत तदा भूयः शारदं गगनं यथा ।।2.78.18।।

Meaning

Shloka 78.19Word-by-word available

स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः । कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः ।।2.78.19।।

Meaning

Shloka 78.20Word-by-word available

तैः वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता । शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागता ।।2.78.20।।

Meaning