← Ayodhyā Kāṇḍa

Sarga 78: Kubjā Thrown Down

कुब्जाविक्षेपः

kubjāvikṣepaḥ — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 3 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 78.21Word-by-word available

तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् । अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति ।।2.78.21।।

Meaning

Shloka 78.22Word-by-word available

हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् । यदि मां धार्मिको रामोनासूयेन्मातृघातकम् ।।2.78.22।।

Meaning

Shloka 78.23Word-by-word available

इमामपि हतां कुब्जां यदि जानाति राघवः । त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् ।।2.78.23।।

Meaning

Shloka 78.24Word-by-word available

भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मणानुजः । न्यवर्तत ततः रोषात् तां मुमोच च मन्थराम् ।।2.78.24।।

Meaning

Shloka 78.25Word-by-word available

सा पादमूले कैकेय्याः मन्थरा निपपात ह । निश्श्वसन्ती सुदुःखार्ता कृपणं विललाप च ।।2.78.25।।

Meaning

Shloka 78.26Word-by-word available

शत्रुघ्नविक्षेपविमूढसञ्ज्ञाम् समीक्ष्य कुब्जां भरतस्य माता । शनैः समाश्वासयदार्तरूपाम् क्रौञ्चीं विलग्नामिव वीक्षमाणाम् ।।2.78.26।।

Meaning