Sarga 11: Kaikeyī Insists on Two Boons
वरद्वयनिर्बन्धः
varadvayanirbandhaḥ — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
तं मन्मथशरैर्विद्धं कामवेगवशानुगम्। उवाच पृथिवीपालं कैकेयी दारुणं वचः ।।2.11.1।।
Meaning
नास्मि विप्रकृतादेव केनचिन्नावमानिता। अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ।।2.11.2।।
Meaning
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि। अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ।।2.11.3।।
Meaning
तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः। कामी हस्तेन सङ्गृह्य मूर्धजेषु शुचिस्मिताम् ।।2.11.4।।
Meaning
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम। मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ।।2.11.5।।
Meaning
तेनाजय्येन मुख्येन राघवेण महात्मना। शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ।।2.11.6।।
Meaning
यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम् ।।2.11.7।।
Meaning
आत्मना वात्मजैश्चान्यैर्वृणेयं मनुजर्षभम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम् ।।2.11.8।।
Meaning
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे। एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ।।2.11.9।।
Meaning
बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि। करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।।2.11.10।।
Meaning