Sarga 11: Kaikeyī Insists on Two Boons
वरद्वयनिर्बन्धः
varadvayanirbandhaḥ — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
सा तदर्थमना देवी तमभिप्रायमागतम्। निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ।।2.11.11।।
Meaning
तेन वाक्येन संहृष्टा तमभिप्रायमागतम्। व्याजहार महाघोरमभ्यागतमिवान्तकम् ।।2.11.12।।
Meaning
यथा क्रमेण शपसि वरं मम ददासि च। तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः साग्निपुरोगमाः ।।2.11.13।।
Meaning
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः। जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ।।2.11.14।।
Meaning
निशाचराणि भूतानि गृहेषु गृहदेवताः। यानि चान्यानि भूतानि जानीयुर्भाषितं तव ।।2.11.15।।
Meaning
सत्यसन्धो महातेजाः धर्मज्ञः सुसमाहितः। वरं मम ददात्येष तन्मे शृण्वन्तु देवताः ।।2.11.16।।
Meaning
इति देवी महेष्वासं परिगृह्याभिशस्य च। ततः परमुवाचेदं वरदं काममोहितम् ।।2.11.17।।
Meaning
स्मर राजन्पुरा वृत्तं तस्मिन् दैवासुरे रणे। तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा ।।2.11.18।।
Meaning
तत्र चापि मया देव यत्त्वं समभिरक्षितः। जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ।।2.11.19।।
Meaning
तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम्। तथैव पृथिवीपाल सकाशे सत्यसङ्गर ।।2.11.20।।
Meaning