Sarga 11: Kaikeyī Insists on Two Boons
वरद्वयनिर्बन्धः
varadvayanirbandhaḥ — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम्। अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ।।2.11.21।।
Meaning
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः। प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ।।2.11.22।।
Meaning
ततः परमुवाचेदं वरदं काममोहितम्। वरौ यौ मे त्वया देव तदा दत्तौ महीपते ।।2.11.23।।
Meaning
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः। अभिषेकसमारम्भो राघवस्योपकल्पितः ।।2.11.24।।
Meaning
अनेनैवाभिषेकेण भरतो मेऽभिषेच्यताम्। यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ।।2.11.25।।
Meaning
तदा दैवासुरे युद्धे तस्य कालोऽयमागतः। नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ।।2.11.26।।
Meaning
चीराजिनजटाधारी रामो भवतु तापसः। भरतो भजतामद्य यौवराज्यमकण्टकम् ।।2.11.27।।
Meaning
एष मे परमः कामो दत्तमेव वरं वृणे। अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ।।2.11.28।।
Meaning
स राजराजो भव सत्यसङ्गरः कुलं च शीलं च हि रक्ष जन्म च। परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम् ।।2.11.29।।
Meaning