Sarga 8: Mantharā's Whispering
मन्थरोपजापः
mantharopajāpaḥ — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत्। उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ।।2.8.1।।
Meaning
हर्षं किमिदमस्थाने कृतवत्यसि बालिशे। शोकसागरमध्यस्थं नात्मानमवबुध्यसे ।।2.8.2।।
Meaning
मनसा प्रहसामि त्वां देवि दुःखार्दिता सती। यच्छोचितव्ये हृष्टाऽसि प्राप्येदं व्यसनं महत् ।।2.8.3।।
Meaning
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्। अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम् ।।2.8.4।।
Meaning
भरतादेव रामस्य राज्यसाधारणाद्भयम्। तद्विचिन्त्य विषण्णास्मि भयं भीताऽद्धि जायते ।।2.8.5।।
Meaning
लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः। शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ।।2.8.6।।
Meaning
प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि। राज्यक्रमो विप्रकृष्टस्तयोस्तावद्यवीयसोः ।।2.8.7।।
Meaning
विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः। भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ।।2.8.8।।
Meaning
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते। यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ।।2.8.9।।
Meaning
प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम्। उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः ।।2.8.10।।
Meaning