← Ayodhyā Kāṇḍa

Sarga 8: Mantharā's Whispering

मन्थरोपजापः

mantharopajāpaḥ — word-by-word gloss for all 39 shlokas.

Page 2 of 439 shlokas in this sarga (verified max-across-sources)
Shloka 8.11Word-by-word available

एवं चेत्त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि। पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ।।2.8.11।।

Meaning

Shloka 8.12Word-by-word available

हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः। अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ।।2.8.12।।

Meaning

Shloka 8.13Word-by-word available

तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः। रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह ।।2.8.13।।

Meaning

Shloka 8.14Word-by-word available

धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्छुचिः। रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ।।2.8.14।।

Meaning

Shloka 8.15Word-by-word available

भ्रातॄन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति। सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ।।2.8.15।।

Meaning

Shloka 8.16Word-by-word available

भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्। पितृपैतामहं राज्यं प्राप्नुयात्पुरुषर्षभः ।।2.8.16।।

Meaning

Shloka 8.17Word-by-word available

सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे। भविष्यति च कल्याणे किमर्थं परितप्यसे ।।2.8.17।।

Meaning

Shloka 8.18Word-by-word available

यथा मे भरतो मान्यस्तथा भूयोऽपि राघावः। कौसल्यातोऽतिरिक्तं च सोऽनुशुश्रूषते हि माम् ।।2.8.18।।

Meaning

Shloka 8.19Word-by-word available

राज्यं यदि हि रामस्य भरतस्यापि तत्तथा। मन्यते हि यथाऽत्मानं तथा भ्रातॄंस्तु राघवः ।।2.8.19।।

Meaning

Shloka 8.20Word-by-word available

कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता। दीर्घमुष्णं विनिश्वस्य कैकेयीमिदमब्रवीत् ।।2.8.20।।

Meaning