Sarga 24: Kausalyā's Grief Consoled
कौसल्यार्तिसमाश्वासनम्
kausalyārtisamāśvāsanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने। कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ।।2.24.1।।
Meaning
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः। मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् ।।2.24.2।।
Meaning
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते। कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ।।2.24.3।।
Meaning
क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भेवद्भयम्। गुणवान्दयितो राजा राघवो यद्विवास्यते ।।2.24.4।।
Meaning
नूनं तु बलवांल्लोके कृतान्तः सर्वमादिशन्। लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ।।2.24.5।।
Meaning
अयं तु मामात्मभवस्तवादर्शनमारुतः। विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ।।2.24.6।।
Meaning
चिन्ताबाष्पमहाधूमस्तवादर्शनचित्तजः। कर्शयित्वा भृशं पुत्र निःश्वासायाससम्भवः ।।2.24.7।।
Meaning
त्वया विहीनामिह मां शोकाग्निरतुलो महान्। प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ।।2.24.8।।
Meaning
कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति। अहं त्वाऽनुगमिष्यामि पुत्र यत्र गमिष्यसि ।।2.24.9।।
Meaning
तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः। श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ।।2.24.10।।
Meaning